Wednesday, 31 October 2018

Na kajre ki dhaar Sanskrit version FEMALE KARAOKE




Special Thanks -
Copyrighted Claimed by: Believe Music & VENUS WORLDWIDE ENTERTAINMENT P. LTD

संस्कृतानुवाद प्रस्तुति -
चलचित्रम् - मोहरा ( १९९४ )
मूलगीतम् : ना कजरे की धार...
गायकः : साधना सरगम, पंकज उदास
संस्कृतानुवादकः- बुद्धिप्रकाशजांगिड
संस्कृतगायकः - राजेश उपाध्यायः

M-
न कज्जलकृतधार:
न मुक्तामणीयहार:
न किंचित् कृतश्रृंगार:
तदपि कियती सुन्दरी हि
त्वं कियती सुन्दरी हि

न कज्जलकृतधार:
न मुक्तामणीयहार:
न किंचित् कृतश्रृंगार:
तदपि कियती सुन्दरी हि
त्वं कियती सुन्दरी हि
F-
मनसि प्रेमप्रचुरं
तत्स्नेहो देहभृत्
जीवनं प्रेमपूर्णम्
त्वमेव मे रे प्रियवर:
त्वं मे रे प्रियवर:

M-
शृङ्गारस्तावकयौवनं
यौवनमेव तवाभूष:
शृङ्गारस्तावकयौवनं
यौवनमेव तवाभूष:
त्वं नवतासि पुष्पाणां
सारल्यस्य किं कथनं
तव गमने वाति सुरभि:
तव गमने वाति सुरभि:
वाचि ते नदति सितार:
न कज्जलकृतधार:
न मुक्तामणीयहार:
न किंचित् कृतश्रृंगार:
तदपि कियती सुन्दरी हि
त्वं कियती सुन्दरी हि


F-
सर्वा मृषामयी जगती
ते रे प्रेम्णि सत्यता हि
सर्वा मृषामयी जगती
ते रे प्रेम्णि सत्यता हि
अहमतो हित्वा जगतीं
संजाता तवानुसारिणी
अशनासं, तव सङ्गेन
अशनासं, तव सङ्गेन
स्वर्णीकृता तथा
मनसि प्रेमप्रचुरं
तत्स्नेहो देहभृत्
जीवनं प्रेमपूर्णम्
त्वमेव मे रे प्रियवर:
त्वं मे रे प्रियवर:


M-
त्वदङ्गानि वै कनकं
मौक्तिकं सुस्मितहास:
त्वदङ्गानि वै कनकं
मौक्तिकं सुस्मितहास:
ते ह्यधरौ रे मधुशाला
ते रूपं नूनं ज्योति:
मुखकान्तिः, यथा मूर्ति:
मुखकान्तिः, यथा मूर्ति:
पश्यामि वारंवारम्
न कज्जलकृतधार:
न मुक्तामणीयहार:
न किंचित् कृतश्रृंगार:
तदपि कियती सुन्दरी हि
त्वं कियती सुन्दरी हि

F-
मनसि प्रेमप्रचुरं
तत्स्नेहो देहभृत्
जीवनं प्रेमपूर्णम्
त्वमेव मे रे प्रियवर:
त्वं मे रे प्रियवर:
Author: Rajesh Upadhyay
Tags:


source

1 comment:

  1. Bohoot sundar koti koti naman sanskrit bhasha hamare poorvajone adbhoot bent diye hei hame . Apko Mera pranam.🙏🙏💐💐🌹🌹

    ReplyDelete